केरलम्।
राज्ये विद्युत्सन्दिग्धता तीव्रायते।
जलबन्धेषु जलव्याप्तिः केवलं २९%।
विद्युदुपभोगः न्यूनीकर्तव्यः इति वैद्युतमन्त्री।
विद्युत् मन्त्री सण्णी जोसफः।
पत्तनंतिट्टा> वर्षाकालवृष्टेः न्यूनत्वेन केरले विद्युदुत्पादन संस्थायाः जलसम्भरणीषु जलवितानम् असाधारणतया आकुञ्चितम्। आहत्य जलबन्धेषु २९ प्रतिशतं जलमेवावशिष्यते इति विद्युदुत्पादनसंस्थया [Electricity board] निगदितम्। गतवर्षे अस्मिन् समये एतत् ६०% आसीत्।
द्वित्राणि दिनानि यावत् विद्युद्वितरणे संस्थया नियन्त्रणं विधत्तमस्ति। आभ्यन्तरोत्पादनस्य न्यूनतामतिरिच्य केन्द्रविहितात् लभ्यमानविद्युतः न्यूनता, आभ्यन्तरोपभोगस्य वर्धनमित्यादीनि नियन्त्रणस्य कारणमस्तीति विद्युच्छक्तिमन्त्रिणा सण्णि जोसफेन उक्तम्। अतः जनैः यावच्छक्यं विद्युदुपभोगे न्यूनीकरणं विधातव्यमिति तेन अभ्यर्थितम्।