पादकन्दुकमहामखस्य अद्य रात्रौ परिसमाप्तिः।
अन्त्यक्रीडायाम् अर्जेंटीना-स्पेयिन् प्रतिद्वन्द्वः।
![]() |
| न्यू जेर्सी क्रीडाङ्कणम्। |
न्यूयोर्क्> सार्धमासं यावत् अनुवर्तमानस्य पादकन्दुकमहामखस्य अद्य रात्रौ परिसमाप्तिः। आविश्वं आकाङ्कापूर्वं अवलोक्यमानायाम् अन्त्यस्पर्धायां वर्तमानीनः विश्ववीरः अर्जेंटीनादलः स्पेयिन् दलेन सह स्पर्धिष्यते। न्यू जेर्सी क्रीडाङ्कणे रात्रौ १२. ३० वादने [भारतसमयः] आरभ्यते स्पर्धा।
लयणल् स्कलोनि इत्यनेन परिशीलितः अर्जेंटीना गणः लयणल् मेसीवर्यस्य नायकत्वे एव संग्रामाङ्कणं प्रविशति। रोड्री इत्यस्य नायकत्वे वर्तमानस्य स्पेयिन् गणस्य परिशीलकः लूयिस् डि ला फ्यूवन्ते भवति।
