अर्जेंटीना - इङ्गलण्टयोः पूर्वान्त्यस्पर्धा अद्य रात्रौ।
अट्लान्टा> पारम्पर्यवैरिणः इति विख्यातयोः अर्जेंटीना - इङ्गलण्टयोः पूर्वान्त्यसंग्रामः बुधवासरे रात्रौ १२. ३० वादने (भारतसमयः) जोर्जियाराज्ये [यू एस् ए] अट्लान्टा क्रीडाङ्कणे सम्पत्स्यते।
नीलवर्णात्मकक्रीडावेषं [Navy blue] धृत्वा भवेत् अर्जेंटीनायाः क्रीडा इति सूच्यते। अमेरिकीयाः सन्ति क्रीडानियन्त्रकाः। इस्मायिल् एल्फात् नामकः मुख्यनियन्त्रकः भविष्यति।