OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, July 18, 2026

 'ओपरेषन् तूफान्' अभियोजनायै तमिलनाट् मुख्यमन्त्रिणः समर्थनम्। 

विजयः कोच्चीनगरे मोहन्लालेन सह उद्बोधनं करिष्यति। 

रमेश् चेन्नित्तलवर्यस्य विजयेन सह मेलनम्। 

चेन्नै> मादकाधोलोकसंघस्य उन्मूलनाशाय केरले आरब्धायै  ओपरेषन् तूफान् अभियोजनायै तमिलनाटस्य मुख्यमन्त्री विजय जोसफः अनुकूलताम् उद्घोषितवान्। अभियोजनायाः अंशतया अचिरेण कोच्चीनगरे आयोज्यमाने प्रबोधनकार्यक्रमे मोहन् लालेन सह उद्बोधनं करिष्यामीति विजयः सम्मतिं ददौ। 

  गतदिने  केरलस्य गृहमन्त्री रमेश् चेन्नित्तलावर्यः चेन्नै नगरं प्राप्य विजयेन सह चर्चां कृतवान् आसीत्।  मादकवस्तुकेन्द्राणि अन्वेष्टुं व्यापननिरोधाय च राज्यद्वयं परस्परं सहयोक्ष्यति।