OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, July 16, 2026

 भारत-इङ्गलण्टयोः एकदिनस्पर्धा - भारतस्य विजयः।

अक्सर पटेलः रोहित शर्मा च कन्दुकताडने 

 

बर्मिङामः>  टि-२० क्रिकट्परम्परायाम् अभिमुखीकृतस्य बृहत्पराजयस्यानन्तरम् आश्वासरूपेण एकदिनपरम्परायाः प्रथमस्पर्धायाम् इङ्गलण्टं विरुध्य भारतस्य षट् द्वारकाणां गम्भीरविजयः। प्राप्ताङ्कसूचिका - इङ्गलण्टः ४७. ५ क्षेपणचक्रेषु २५८/ सर्वे बहिर्नीताः। भारतं ४५. २ क्षेपणचक्रेषु २६२/४। 

  चत्वारि द्वारकाणि, ५७ धावनाङ्कान् च सम्पादितवान् अक्सर पटेलः श्रेष्ठक्रीडकः अभवत्। भारतनायकः शुभमान गिलः ८० धावनाङ्कान् सम्पाद्य व्रणितः सन् निवृत्तः। वाषिङ्टण् सुन्दरः (५२), श्रेयस् अय्यरः (३५) च कन्दुकताडने प्रभावं प्रकटितवन्तौ। स्पर्धात्रयात्मिकायाः परम्परायाः द्वितीयस्पर्धा गुरुवासरे कार्डिफ् इत्यत्र सम्पत्स्यते।