OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, July 12, 2026

 इङ्गलण्टः पूर्वान्त्यचक्रे। 

मयामी> गतरात्रौ सम्पन्ने प्रपूर्वान्त्यचक्रप्रतिद्वन्द्वे नोर्वेगणं एकं विरुध्य लक्ष्यद्वयेन पराजित्य इङ्गलण्टः विश्वचषकस्य पूर्वान्त्यचक्रं प्राविशत्। 

  प्रतीक्षां विरुध्य विरसे प्रतिद्वन्द्वे प्रथमे अर्धे गणद्वयमपि एकैकं लक्ष्यं सम्पाद्य समस्थितिम् अभजत। क्रीडायाः अधिकसमये इङ्गलण्टेन विजयक्ष्यं सम्पादितम्। 

लक्ष्यसम्पादकौ - ए षेल् डरूप् ३६'[नोर्वे], जूडू बल्लिंगमः ४५ +२', ९३' [इङ्गलण्टः]।