OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, July 13, 2026

 पश्चिमेष्यायुद्धं कठिनायते। 

होर्मुसः पिहितः, यू एस्-इरानयोः परस्पराक्रमणम्। 

ओमाने भारतीयमहानौका आक्रान्ता; कश्चन नाविकः अदृष्टः। 

दुबाय्> पण्यगमनागमनमार्गं होर्मुस् समुद्रसङ्कोचमधिकृत्य संघर्षैः पश्चिमेष्या पुनरपि  प्रक्षुब्धा वर्तते। 

  होर्मुस् सामुद्रिकधुनीसमीपे ओमानस्य तटे ११ भारतीयनाविकैः सञ्चरन्ती पण्यमहानौका इरानेन आक्रान्ता। सैप्रस् राष्ट्रस्य ध्वजं वहन्ती 'जी एफ् एस् गैलेक्सी'  इति महानौकायां मिसैल् पतित्वा अग्निबाधा आपन्ना। १० नाविकाः नौकायाः अपनीय सुरक्षिताः कृतः। किन्तु एकः अदृष्टः जातः। 

  इनानेन अनङ्गीकृतेन मार्गेण गच्छन्ती इत्यत एव महानौका आक्रमणाधीना अभवदिति इनानस्य सैनिकविभागेन - Islamic Revolutionary Guard Core - इत्यनेन निगदितम्। 

  महानौकाक्रमणस्य प्रत्युत्तररूपेण रविवासरे इराने १४० स्थानेषु यू एसेन व्योमाक्रमणं विधत्तम्। इरानस्तु गल्फराष्ट्रेषु विद्यमानानि यू एस् सेनाशिबिराणि प्रति प्रत्याक्रमणमकरोत्। खतरे एकं बालमभिव्याप्य त्रयः व्रणिताः। संघर्षमालक्ष्य होर्मुस् सङ्कोचः इरानेन पूर्णतया पिहितः। अनेन यू एस्-इरानयोः युद्धविरामः अनिश्चितत्वे पतितः।