OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, July 14, 2026

 स्फोटनं - नागालान्टे सैनिकः वीरमृत्युं प्राप।

चत्वारः आहताः।

कोहीमा> नागालान्टे चमुकेडिमा जनपदे दुरापन्ने ऐ ई डि स्फोटने 'असं रैफिल्स्' सेनायाः कश्चन भटः वीरमृत्युं प्राप। चत्वारः व्रणिताः जाताः। कस्यचनापि नामादिकं न प्रकाशितम्।  

  सुरक्षासेनायाः वाहनव्यूहस्य समीपे आसीत्  स्फोटनम्। व्रणिताः समीपस्थम् आतुरालयं प्रवेशिताः। घटनामधिकृत्य अन्वेषणमारब्धम्।