OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, July 18, 2026

 "तृतीयभाषा नवमकक्ष्यायां नारम्भणीया।"

सर्वोच्चन्यायालयस्य निरीक्षणम्।


नवदिल्ली> सी बी एस् ई संस्थायाः त्रिभाषानये विवादे जाते, तृतीयभाषायाः अध्यापनं नवम्यां कक्ष्यायां समाप्तव्यमिति सर्वोच्चन्यायालयेन निरीक्षितम्। दशमकक्ष्यायां सामान्यपरीक्षा समागच्छति इत्येतत् उद्भाव्य  अष्टमकक्ष्यात एव  छात्रेषु मानसिकसम्मर्दः जायेत।  तदानीं  तृतीया कापि भाषा पठनीया इत्येतत् अधिकसम्मर्दाय भविष्यति। अतः नवमकक्ष्यायां नूतनी भाषा न अध्यापयितव्या इति न्यायाधीशा बी वी नागरत्ना, न्यायाधीशः आर् महादेवः इत्येतयोः नीतिपीठेन निरीक्षितम्। 

  तमिलनाटे नवोदयविद्यालयानां संस्थापनमधिकृत्य प्रकरणस्य व्यवहारे आसीत् नीतिपीठस्य प्रस्तावः। नवोदयविद्यालयाः केन्द्रसर्वकारस्य अधीशत्वे सन्ति इत्यतः तान् प्रति  विरोधस्य अवकाशः नास्तीति तमिलनाटसर्वकारं  न्यायालयः उपदिदेश।