त्रयः सञ्चारिणः अद्य बहिराकाशं प्रति।
यात्रिकेषु अनिल मेनोनः प्रथमः केरलीयः।
अनिल मेनोनः
बैकनूर् [कसाकिस्थानं]> मङ्गलवासरस्य रात्रौ ८:१७ वादने (भारतसमयः) त्रयः बहिराकाशशास्त्रज्ञाः अन्ताराष्ट्र बहिराकाशनिलयं प्रति प्रस्थास्यन्ति। अष्टमासान् यावत् विविधोद्देशगवेषणाभ्यां ते कालं यापयिष्यन्ति।
नासा शास्त्रज्ञाः अनिल मेनोनः, प्रोतृ दुब्रो, अन्ना किकिना इत्येते यात्रां कुर्वन्ति। तेषु अनिल मेनोनः बहिराकाशयात्रां कुर्वन् प्रथम केरलीयः इति प्रथामवाप्नोति।
रष्यायाः बहिराकाशाभिकर्ता रोस् कोस्मोस् इत्यस्य सोयूस् एम् एस् -२९ इति पेटके अस्ति यात्रा। कसाखिस्खानस्थे बैकनूरे वर्तमानात् बहिराकाशनिलयादेव विक्षेपः।