केरलम्।
ओपरेषन् तूफान् - ११६ किलो गञ्जाभाण्डैः ४ ओडीषायुवकाः निगृहीताः। 
करुकुट्टीमध्ये निगृहीतैः गञ्जाभाण्डैः अपराधिभिः च सह एक्लैस् अधिकारिणः।
कोच्ची> केरलराज्यं उन्मादकवस्तुनिर्मुक्तं कर्तुं राज्यप्रशासनेन समारब्धम् 'ओपरेषन् तूफान्' नामकं दौत्यम् आराज्यम् अभङ्गुरमनुवर्तते। एरणाकुलं जनपदस्थे करुकुट्टी इत्यत्र रेल्निस्थानसमीपात् ११६. ३७ किलोमितैः गञ्जाभाण्डैः चत्वारः युवकाः उत्पादनकरविभागेन [Excise department] निगृहीताः। लहरिवस्तुविपणने मध्यस्थाः एते ओडीषाराज्यीयाः इति अधिकारिभिः उक्तम्।
किलोद्वयमितगञ्जायाः ५८ भाण्डाः ११ स्यूत्येषु संस्थाप्य रेल् मार्गं प्राप्ताः आसन्। अङ्कमाली मद्यनिर्मार्जनसंघाय लब्धायाः गुप्तसूचनायाः आधारे कृते अन्वेषणे अस्ति एतेषां निग्रहणम्।