नासा बहिराकाशदौत्यं सम्पूर्णविजयः।
यात्रिकसंघः बहिराकाशनिलयं प्राप्तः। 
त्रयः यात्रिकाः पेटकप्रवेशात् पूर्वम्।
वाषिङ्टणः> केरलदेशीयः नासाशास्त्रज्ञः डो अनिल मेनोनः द्वौ रष्यीयशास्त्रज्ञौ च अद्य प्रत्युषसि सार्धैकवादने [भारतसमयः] अन्ताराष्ट्र बहिराकाशनिलयं [ISS] प्रविष्टवन्तः। मङ्गलवासरे रात्रौ ८. १७ वादने एते त्रयः रष्यायाः बहिराकाशाभिकर्ता 'रोस् कोस्मोस्' इत्यस्य सोयूस् एम् एस् - २९ नामके पेटके ऐ एस् एस् प्रति यात्राम् आरभन्त। होरात्रयस्य सञ्चारानन्तरं रात्रौ ११. २५ वादने पेटकं ऐ एस् एस् निलयेन सह सम्बद्धम्। सार्धैकवादने द्वारमुद्घाट्य ऐ एस् एस् प्रति प्रविष्टवन्तः।
परं ८ मासान् यावत् निलये गवेषणे व्यापरिष्यन्ति। २०२७ एप्रिल् मासे संघस्य भूमिं प्रति निवर्तनं भविष्यति।