OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, July 13, 2026

 खत्तरस्य पूर्वीयः अमीर् पदीयः निर्यातः। 


भारते एकदिवसीयं दुःखाचरणम्। 

दोहा>  आधुनिकखत्तरराष्ट्रस्य शिल्पी इति विख्यातः भूतपूर्वः शासनाधिकारी [अमीर्] शैख् हमद् बिन् खलीफा अल् तानी वर्यः [७४] रविवासरे दिवंगतः। १९९५ तमवर्षादारभ्य २०१३ पर्यन्तं खत्तरस्य शासनाधिकारी आसीत्। तस्य शासनकाले खत्तरः अन्ताराष्ट्रियस्तरे श्रद्धामवाप। 'अल् जसीरा' इति दूरदर्शनसम्पर्कव्यवस्था [TV net work] तेनैव स्थापिता। २०२२ तमस्य फिफा विश्वचषकाय आतिथ्यं वोढुम् अधिकारं सम्पादयामास। खत्तरं विश्वस्मिन् सम्पन्नराष्ट्रेषु अन्यतमं कारयितुं यतितवान्  सः २०१३ तमे वर्षे राष्ट्राधिकारं तस्य चतुर्थपुत्राय शैख तमीं बिन् हमद अल् तानी इत्यस्मै समर्प्य विश्रान्तजीवनं यापितवान्। 

  तस्य निर्याणे आदरसूचकत्वेन भारतेन एकदिनात्मकं राष्ट्रिय दुःखाचरणम् उद्घोषितम्।