OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, July 18, 2026

 अमेरिका-देशेन ईराने आक्रमणं तीव्रीकृतम्

 चबहार-नगरे पत्तन-निरीक्षण-स्तम्भः ध्वंसितः, स्थलाक्रमणं करिष्यामीति ट्रम्पस्य पूर्वसूचना ।

          अनुस्यूततया सप्तमदिने अपि ईरान अमेरिका-देशयोर्मध्ये आक्रमणं प्रचलति। चबहार-नगरे पत्तन-निरीक्षण-स्तम्भः विनष्टः इति अमेरिका-देशेन घोषितम्। अनेन होर्मुज़-जलान्तरालसन्धौ महानौकायाः अनुमार्गणं लक्ष्यीकरणं कर्तुं IRGC संस्थायाः सामर्थ्यं बाधितं भविष्यति इति अमेरिका-सेना कथयति। ईराने स्थलाक्रमणं करिष्यामि इति राष्ट्रपतिः डोनाल्ड-ट्रम्पः अपि अवदत्। आकाशे युद्धविमानेषु इन्धनपूरणसमर्थान् अधिकान् जेट्-विमानान् इस्रायेल-देशं प्रति प्रेषितुम् अपि ट्रम्पस्य प्रयासः अस्ति।ईरानस्य सिरिक्, बन्दर् अब्बास्, खषाम् इत्यादिषु स्थानेषु विस्फोटाः अभवन्। नौका-अवरोधस्य आरम्भात् परं होर्मुज़-क्षेत्रे चत्वारः महानौकाः निरुद्धाः इति 'यू.एस्. सेन्ट्रल् कमाण्ड्' दलेन सूचितम्। एका नौका आक्रम्य निष्क्रियीकृता, अन्या एका नौका सैनिकाः आरूढवन्तः इति 'यू.एस्. सेन्ट्रल् कमाण्ड्' वदति। खार्ग्-द्वीपे सुबद्धम् ईरानस्य तैल-वाहनैका अमेरिका-देशेन आक्रमिता इति बुषेहर्-नगरस्य राज्यपालः न्यवेदयत्। होर्मुज़-जलान्तरालसन्धिं पारं गन्तुं प्रयतमाना ताईलान्ट्-ध्वजयुक्ता नौका 'इस्लामिक-रिवोल्यूषणरी-गार्ड' दलेन आक्रमिता इति ईरानः प्रतिवेदयति।