OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, July 18, 2026

 प्रथमं हैड्रजन् रेल् यानं सेवाम् आरभत।

हैड्रजन् रेल् यानं प्रधानमन्त्री नरेन्द्र मोदी प्रारम्भयति। 

 

जिन्द्> राष्ट्रस्य प्रथमं हैड्रजन् रेल् यानं, तथा विश्वस्मिन् दैर्घ्यतमा 'ब्रोड् गेज् हैड्रजन् रेल् यानम्' इति विख्यातिमापद्यमानं 'नमो ग्रीन् ट्रयिन्' इत्यस्य प्रथमा सेवा हरियानस्थे जिन्दे प्रधानमन्त्रिणा नरेन्द्र मोदिना शुक्रवासरे उद्घाटिता। 

  तैलेन्धनसन्दिग्धतायामपि भारतस्य विकासः न स्थगितः इत्यस्य निदर्शनं भवति हैड्रजन् वायुना प्रवर्तमानं रेल् यानमिति प्रधानमन्त्रिणा प्रोक्तम्। 

  उत्तरक्षेत्रीय रेल्विभागस्य दिल्ली प्रान्ते जिन्द- सोनिपत् मार्गे अस्ति "एछ् रेल्यानस्य" सेवा। ८९ कि मी दैर्घ्यमस्ति। यात्राशुल्कं दशतः आरभ्य ३५ रूप्यकाणि पर्यन्तमिति प्रतीक्षते। प्रतिदिनं सेवाचक्रद्वयं व्यवस्थापितम्।