OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, July 12, 2026

 अर्जेंटीना विजित्य पूर्वान्त्ये। प्रतियोगी इङ्गलण्टः। 

स्पर्धां विजित्य अर्जन्टीनायाः आह्लादः। 

कन्सास् सिटी> स्विट्सर्लान्ट गणम् एकं विरुध्य त्रीणि लक्ष्याणि प्रतिसमर्प्य अर्जेंटीना विश्वचषकस्पर्धायाः पूर्वान्त्यचक्रं प्राविशत्। एष विजयः अनायासेन नासीदपि यथासमयं यथायुक्तं यथातथं कथं क्रीडितव्यमिति मेस्सिः भटाश्च एकवारमपि प्रमाणीचक्रुः। 

  क्रीडायाः दशमनिमिषे माक् अलिस्टर् इत्यनेन स्विट्सर्लान्टस्य लक्ष्यजालं प्रथमतया प्रकम्पितमपि अनुवर्तमाननिमिषाः अर्जेंटीनायै अयत्नललिताः नासन्। 'स्विस् सैनिकानां' रणवीर्यं मेसिसंघः सुष्ठु ज्ञातवन्तः। २२ तमे निमिषे स्विट्ज़रलान्डस्य डान् डो इत्यनेन लक्ष्यं प्रत्यर्पितम्। ततः निश्चितसमयं यावत् १- १ इति लक्ष्यसम्पादने स्थित्वा गणद्वयमपि आक्रमणप्रत्याक्रमणैः प्रेक्षकान् आकाङ्क्षाशिखरे स्थापयामास। 

  अधिकसमयः प्रायेण अर्जेंटीनायाः आधिपत्ये आसीत्। कथमपि जेतव्यमिति प्रत्यवबोधितः मेसीसंघः कथं क्रीडितव्यमिति च प्रत्यबोधत। ११२ तमे निमिषे जूलियन् अल्वारस् इत्येषः अर्जेंटीनाम् अग्रमानीतवान् - (२-१)।  १२० + २ तमे निमिषे अर्जेंटीनायाः मार्टिनस् नामकः स्वीयगणस्य विजयम् आधिकारिकं कृतवान् - (३-१)। 

  जूलै १६ तमे दिनाङ्के सम्पत्स्यमाने पूर्वान्त्ये इङ्गलाण्टः अस्ति अर्जेंटीनायाः प्रतियोगी।