OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, July 17, 2026

 म्यान्मरतीरसमुद्रे यात्रानौका निमज्य ५०० जनाः मृताः।


जनीवा> रोहिंगीयैः अभयार्थिभिः सह सञ्चरत्यौ द्वे नौके म्यान्मरदेशस्य तीरे वंगसमुद्रान्तराले निमज्य ५०० जनाः मृत्युमुपगताः इत्याशङ्का यू एन् संस्थया निगदिता। जूण् मासस्य अन्त्यदिनेषु म्यान्मरतः प्रस्थितं द्वे बृहन्नौकाद्वयमेव दुर्घटनाधीनं गतमिति संयुक्तराष्ट्रसभायाः देशान्तराधिवासविभागेन [IOM] अभयार्थिनाम् अभिकरणसंस्थया [UNHCR] च संयुक्तप्रस्तावेन निगदितम्।

  इस्लामीयन्यूनपक्षेन राहिंग्यसमूहेन सह म्यानमरस्य संघर्षबाधितप्रदेशात् राखैनराज्यात् द्वे नौके प्रस्थिते। बंगलादेशस्थे अभयार्थिशिबिरे वृत्ताः रोहिंग्याः च नौकायामासन्। एकस्यां नौकायां २५० जनाः, अन्यस्यां २८० जनाः चासन्। जूलै अष्टमदिनाङ्के एका नौका समुद्रे निमग्ना इति विवरणम्। इतरेण नौकायानेन सह बन्धः विनष्टः जातः इति प्रस्तावे प्रोक्तम्।