OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, July 13, 2026

 लोर्ड्स् क्रीडाङ्कणे भारतीयमहिलानां चरित्ररचना।

इङ्लाण्टं विरुध्य निकषस्पर्धायां भारतस्य प्रोज्वलविजयः।

लोर्ड्स् क्रीडाङ्कणे विजयश्रीलालिताः भारतीयमहिलाः।
 

लण्टनं> लोर्ड्स् क्रीडाङ्कणे क्रिकट् निकषस्पर्धां विजयमानः प्रथमः महिलागणः इति ख्यातिः भारतस्य। इङ्लाण्टं विरुध्य एकैकस्यां निकषस्पर्धायां भारतस्य २७० धावनाङ्कानां अत्युज्वलविजयः। यास्तिका भाटियायाः शतकं, क्रान्ति गौडायाः पञ्च द्वारकोपलब्धिश्च भारतविजयस्य आधारः। 

  हर्मन् प्रीत कौर् वर्यायाः नेतृत्वे क्रीडितवत्यः भारतीयवनिताः प्रथमचरणे स्मृति मन्थाना (८३), हर्मन् प्रीत कौर् (५८), दीप्ती शर्मा (५७) इत्येतासां अनुपमप्रकटने भारतं २८५ धावनाङ्कान् सम्पादयामास।  इङ्गलाण्टस्य  प्रत्युत्तरताडनं १७०  धावनाङ्केषु समापितम्।  क्रान्ति गौड् वर्या पञ्च द्वारकाणि सम्पादितवती। भारताय ११५ धावनाङ्कानां पुरतःस्थितिः। 

  द्वितीयचरणे यास्तिका भाटिया ११३ धावनाङ्कान् सम्पाद्य भारतविजयस्य आधारशिलां स्थापितवती। ३४१ / ७ इत्यस्मिन् प्राप्ताङ्के भारतस्य निवृत्तिः। ४५७ धावनाङ्कानां विजयलक्ष्येण क्रीडितः इङ्गलाण्टदलः १८६ धावनाङ्कान् सम्पाद्य सर्वाः बहिर्गताः। भारतस्य २७० धावनाङ्कानां प्रोज्वलविजयः।