कोमण्वेल्त् गयिंस् श्वः आरभ्यते।
नवदिल्ली> कोमण्वेल्त् राष्ट्राणां क्रीडाः नाम्ना 'कोमण्वेल्त् गयिंस्' गुरुवासरे स्कोट्लान्ट् राष्ट्रे ग्लास्को इत्यत्र समारप्स्यन्ते। १३ प्रकरणेषु भारतात् १२६ कायिकताराणि भागं करिष्यन्ति।
२०२२ तमे वर्षे बर्मिङ्गामे सम्पन्नायां क्रीडायां २२ सुवर्णपदकानि अभिव्याप्य ६१ पदकैः भारतं चतुर्थस्थानं प्राप्तवदासीत्। क्षेत्रक्रीडा [अत्लटिक्स्], मल्लयुद्धं [Boxing], भारोद्वहनम् इत्येतानि एव भारतस्य मुख्यपदकप्रतीक्षाप्रकरणानि।