OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, July 20, 2026

 स्पेयिनः  विश्वविजेता।

अर्जेटीना निपतिता [१-०]

विश्वचषकेन सह स्पेयिनक्रीडकाः।

न्ययोर्क्> अत्यन्तम् आकाङ्क्षाभरिते अन्तिमप्रतिद्वन्द्वे वर्तमानीनवीरं  अर्जेन्टीनादलं १ - ० क्रमेण  पराजित्य स्पेयिनः २३तमं विश्वचषकं स्वायत्तीचकार। अधिकसमये १०६ तमे निमिषे आसीत् स्पेयिनस्य विजयनिर्णायकं लक्ष्यकन्दुकम्। 

  प्रथमार्धः लक्ष्यकन्दुकरहितेन परिसमाप्तः। भूरिसमये कन्दुकस्योपरि पादाधिपत्यं स्पेयिनस्य आसीत्। चतुष्पञ्चवारं अर्जेंटीनायाः लक्ष्यजालं लक्ष्यीकृत्य कन्दुकप्रहाराः स्पेयिनस्य पक्षतः अजायन्त। अर्जेंटीनापक्षतः तादृशप्रयत्नाः न दृष्टाः। ३८ तमे निमिषे कुवृत्तिकारणेन पीतपत्रदण्डं विहितः अर्जेंटीनाक्रीडकः एल् मार्टिनेसः अर्धान्त्ये प्रतिनिवृत्तः। तत्स्थाने निकोलो कोटमेन्डी प्रविष्टश्च। 

  द्वितीयार्धः अर्जेंटीनायाः आक्रमणेन आरब्धः अपि  स्पेयिनः लेशमपि वशीभूतो नाभवत्। क्रमेण क्रीडायाः नियन्त्रणं स्पेयिनेन वशीचकार। अनुस्यूततया द्वित्राणि आक्रमणानि अर्जेंटीनायाः लक्ष्यजालमुखे कृतानि च। किन्तु लक्ष्यरक्षकस्य वैभवात् लक्ष्यकन्दुकं दूरं स्थितम्। 

  ९०+३ तमे निमिषे अर्जेंटीनायाः एन्सो फेर्णान्टसः द्वितीयवारं पीतपत्रं स्वीकृत्य बहिर्गतवान्। निर्धारितसमयः लक्ष्यरहितः सन् समाप्तः। 

  अधिकसमये कृते जीवन्मरणसंग्रामे १०६ तमे निमिषे अर्जेन्टीनायाः  मेसेः च हृदयभेदकं लक्ष्यकन्दुकं स्पेयिनस्य टोरिस् नामकस्य पादात् जातम्। ततः मेसीसंघः सर्वशक्तिं संगृह्य प्रत्याक्रमणम् अकरोदपि सर्वः प्रयत्नः निष्फलः जातः। अथ २०१० विश्वचषकस्य अनन्तरं पुनरपि स्पेयिनः विश्वकिरीटं चुचुम्ब।