युक्रैने पण्यमहानौकां प्रति रष्यायाः आक्रमणम्।
१० नाविकाः मृताः। ४ भारतीयाः।
ओडेसा> युक्रैने ओडेसानौकाश्रये पण्यमहानौकां विरुध्य रष्यया कृते व्योमाक्रमणे दश नाविकाः मृताः। मृतेषु चत्वारः भारतीयाः भवन्ति। तेषु एकः केरलीयः अस्ति। कासरगोड् प्रदेशीयः अखिल् जोयन् [२६] इति प्रत्यभिज्ञातम्।
गिनि-बसावु राष्ट्रस्य ध्वजं वहन्तीं 'गोल्डण् लियो' नामिकां पण्यमहानौकां प्रति आसीत् मिसैलशस्त्राक्रमणम्। रविवासरे रात्रौ आसीदाक्रमणम्।