OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, July 20, 2026

 गासायाम् इस्रयेलस्य आक्रमणम्।

बालकानभिव्याप्य ११ जनाः हताः। 

गासानगरं> गासाप्रदेशस्य विविधस्थानेषु वाससमुच्चयं प्रति इस्रयेलेन कृते व्योमाक्रमणे ११ जनाः हताः। एकस्मिन् परिवारे त्रीणि अपत्यानि अभिव्याप्य पञ्च जनाः मृताः। आक्रमणसमये बहिः स्थितः एकः बाल एव तस्मिन् परिवारे अवशिष्यते। 

  गासा नगरे अन्यत्र कृते आक्रमणे त्रयः मृताः। विविधस्थानेषु अभयार्थिशिबिराणि, वाससमुच्चयं प्रति च आक्रमणं विधत्तम्। हमाससैनिकान् विरुध्य आसन् आक्रमणानीति इस्रयेलस्य विशदीकरणम्। 

  २०२५ ओक्टोबरमासे गासायां युद्धविरामः प्रबलो जातः अपि युद्धविरामलङ्घनम् आरोप्य मुहुर्मुहुः इस्रयेलः आक्रमणं विधास्यति। एतादृशाक्रमणेषु अद्यावधि ११४४ जनाः मृत्युमुपगताः। इस्रयेलस्य पञ्च सैनिकाः अपि विनष्टप्राणाः अभवन्।