सहस्रकोटिरूप्यकाणां मादकगुडिकाः निगृहीताः।
'ओपरेषन् वज्र' दौत्यस्य अंशः।
![]() |
| सी बी एन् संघेन निगृहीताः उन्मादकगुडिकाभाण्डाः। |
दिल्ली> विदेशराष्ट्रं नेतुं प्रयतमानाः सहस्रकोट्यधिकरूप्यकाणाम् उन्मादकगुडिकाः - नाम्ना ट्रामडोल् tramadole - दिल्ल्यां सी बी एन् संस्थया [Central Bureau of Narcotics] निगृहीताः। प्रकरणेSस्मिन् द्वौ केरलीयौ अपि निगृहीतौ। प्रकरणस्यास्य सूत्रधारः यः बङ्गलुरु नगरस्थायाः गुडिकोत्पादनसंस्थायाः निदेशकः पूर्वमेव निगृहीतः।
दिल्ल्यां कस्मिंश्चित् भवने परिपालिताः ३०,००० किलोमिताः गुडिकाभाण्डाः एव सी बी एन् संघेन निगृहीताः। केन्द्र वित्तमन्त्रालयस्य अधीशत्वे वर्तमानेन सी बी एन् विभागेन क्रियमाणस्य 'ओपरेषन् वज्र' इति दौत्यस्य अंशतया आसीत् इदं बृहत् उन्मादकलवनं सम्पन्नम्।
