OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, July 20, 2026

 जम्मु-काश्मीरे आकस्मिकप्रलयः - अष्ट मरणानि। 

आकस्मिकप्रलयेन आपन्नः विनाशः। 

जम्मु> जम्मु-काश्मीरस्य पूञ्च्, रजौरी इत्येतयोः प्रदेशयोः गतदिने अतिवृष्ट्या दुरापन्ने आकस्मिकप्रलये ८ जनाः मृताः। षट् जनाः तिरोभूताः। बहुत्र वीथयः विनश्य सञ्चारसुविधाः विनष्टाः। 

  पूञ्च् प्रदेशस्थे सुरन्कोट् टह्सिल्  इत्यत्र प्रलयेन महानाशः आपन्नः। भूविच्छेदे गृहं विशीर्य प्रवाहितम्।  गृहे सत्सु अष्टसु द्वयोः मृतशरीरे अधिगते। शतशः जनाः सुरक्षितस्थानं नीताः। 

  दर्हाली, खण्ड ली, सुक्तोह्, जमोला इत्येताः नद्यः आप्लुतोदकाः अभवन्। अमर्नाथ-वैष्णोदेवी-शिवखोरी मन्दिराणि प्रति तीर्थयात्रा अल्पकालिकया स्थगिता।