OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, July 22, 2026

 आन्डी बेण् हमः ब्रिटनस्य नूतनः प्रधानमन्त्री।

आन्डी बेण् हामः। 

     लण्टनं> ब्रिटनस्य नूतनः प्रधानमन्त्रिरूपेण लेबर् पार्टी इत्यस्य नेता आन्डी बेण् हमः [५६] कार्यभारं स्वीचकार। २०२४ तमे वर्षे अधिकारं प्राप्तः लेबर् पार्टीनेता स्टामरः २०२६ जूण् मासे स्वस्य स्थानत्यागम् उद्घोषितवान्। तदनन्तरम् आयोजिते मेकर् फील्ड् उपनिर्वाचने लब्धः अपूर्वविजयः बेण् हामं प्रधानमन्त्रिपदमनयत्। 

  वर्षत्रयमेव बेण् हामाय अवशिष्टः शासनकालः। २०२९ तमे राष्ट्रे सामाजिकनिर्वाचनं सम्पत्स्यते। २०१६ तमे वर्षे सम्पन्ने 'ब्रेक्सिट्' हितपरिशोधनात्परं ब्रिटनं राजनैतिकास्थिरतां भजते। अतीतेषु दश वर्षेषु अधिकारं प्राप्नुवन् सप्तमः प्रधानमन्त्री भवति आन्डी बेण् हामः।