OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, July 20, 2026

 राष्ट्रिय चलच्चित्रपुरस्काराः उद्घोषिताः। 

मम्मूट्टिः कार्तिक् आर्यः च श्रेष्ठौ नटौ। 

'आर्टिकिल् ३७०' श्रेष्ठं चित्रं, राज्कुमार् पेरिय सामी निदेशकश्रेष्ठः।

राष्ट्रियचलच्चित्रपुरस्कारजेतारः मम्मूट्टिः, कार्तिक् आर्यन्, यामी गौतं च। 

नवदिल्ली> २०२४ वर्षस्य राष्ट्रिय चलच्चित्रपुरस्काराः उद्घोषिताः। मलयालस्य महानटः मम्मूट्टिः बोलिवुड् अभिनेता कार्तिक् आर्यः च श्रेष्ठाभिनेतृपुरस्काराय चितौ। राहुल सदाशिवेन निदेशकत्वं कृते भ्रमयुगम् इति कैरलीचित्रे कृताभिनयस्य कृते मम्मूट्टिवर्यः पुरस्कारार्हः अभवत्। चतुर्थवारमेव अस्मै अयं रजतकमलपुरस्कारः। ' 'चन्दु चाम्प्यन्' इति चित्रस्य अभिनयेन कार्तिक् आर्यः श्रेष्ठनटः अभवत्। 

  श्रेष्ठचित्राय दीयमानः सुवर्णकमलपुरस्कारः आदित्य सुहास् जम्भाले इत्यनेन  निदेशं कृताय  'आर्टिकिल् ३७०' इति चित्राय उपलब्धः। अस्य चलच्चित्रस्य अभिनयेन यामी गौतं श्रेष्ठा अभिनेत्री जाता। 

  ए आर् एम् इति चित्रे प्रदर्शितेन आलापनवैशिष्ट्येन कैरलीगायिका वैक्कं विजयलक्ष्मी सर्वोत्तमा गायिका अभवत्। तमिल चलच्चित्रम् 'अमरन्' इत्यस्य निदेशकः राज्कुमार् पेरिय सामी निदेशकश्रेष्ठः जातः।