OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, July 18, 2020

केरले कोविड्बाधिताः ११सहस्रमतीताः।
प्रतिदिनव्यापनं ७००अधिकम्।
तिरुवनन्तपुरं जनपदे सामाजिकव्यापनम्। 
अनन्तपुरी > केरले कोविड्-१९ रोगस्य व्यापनं कतिपयस्थानेषु अतिरूक्षतया अनुवर्तते। ह्यः ७९१ जनेषु रोगबाधा दृढीकृता। रोगबाधितेषु ५३२ सम्पर्केण बाधिताः भवन्ति। दिनद्वयं यावत् प्रतिदिनव्यापनसंख्या सप्तशताधिका वर्तते। 
  राज्ये तिरुवन्तपुरं जनपदे पून्तुरा पुल्लुविला प्रदेशद्वये  सामाजिकव्यापनमभवदिति निर्णीतम्। राष्ट्रे प्रथमतया एव  सामाजिकव्यापनमभवदितति सर्वकारीयस्तरे दृढीकरणं कृतम्। राष्ट्रस्य बहुषु मुख्यनगरेषु रोगबाधितानां संख्या क्रमातीतेन उद्गता अपि ऐ सि एम् आर् संस्थया केन्द्रस्वास्थ्यमन्त्रालयेन वा सामाजिकव्यापने स्थिरीकरणं न कृतमासीत्। 
  आहत्य ११०६६ जनेभ्यः कोविड्रोगः बाधितः। अद्यावधि ४९९५ रोगिणः स्वास्थ्यभूताः जाताः। ३८ जनाः मृत्युवशं प्राप्ताः।

Friday, July 17, 2020

'ला लीगा' मध्ये रयल् माड्रिड् जेता।
(कायिकम्)
  माड्रिड्(स्पेयिन्)> स्पानिष् लीग् पादकन्दुकक्रीडासपर्यायां 'ला लीगा' मध्ये रयल् माड्रिड् सङ्घः विजेता अभवत्। रयल् माड्रिड् कृते एका क्रीडा अपि अवशिष्यते इत्‍येतत् सङ्घस्य विजयमाधुर्यं वर्धयति। कोविड्१९ भीत्या मासत्रयात्मककालं यावत् क्रीडाः समापिताः आसन्। विरामात्परं पुनरारब्धे लीग्‌ मध्ये रयल् माड्रिड् असामान्यं प्रभावं प्राकटयत्। गतदिने २-१ इति क्रमे विय्यारल् उपरि प्राप्तः जयः रयल् माड्रिड् सङ्घस्य किरीटधारणं दृढम् अकरोत्।

Thursday, July 16, 2020

विदेशछात्राः यू एस् मध्ये अनुवर्तितुं शक्यन्ते। 
वाषिङ्टण् > यू एस् राष्ट्रे  'ओण् लैन्' अध्ययनस्य प्रचारे संवर्धिते वैदेशिकछात्रैः राष्ट्रं त्याज्यमिति ट्रमम्प् शासनस्य आदेशः निरस्यते। जूलाय् षष्ठे दिने विज्ञापितमादेशं निरस्तुं यू एस् राष्ट्रं सन्नद्धमिति बोस्टण् फेडरल् जनपदनीतिपीठस्य न्यायाधीशेन अलीसन् बरो इत्यनेन निगदितम्। भारतमभिव्याप्य लक्षशः विदेशीयछात्राणां कृते आश्वासदायकः भवत्ययं निर्णयः। 
  सेप्टम्बर्-डिसम्बर् सेमस्टर् अध्ययनं सम्पूर्णतया ओण्लैन् द्वारा आयोज्यमानेषु  विश्वविद्यालयेषु अध्ययनं कुर्वन्तः वैदेशिकछात्राः राष्ट्रं त्यजेयुः नो चेत् ते राष्ट्रान्निष्कासितव्याः भवेयुरिति  विदेशमन्त्रालयः जाग्रतासूचनां अकरोत्। एतां विरुध्य राष्ट्रे महान् प्रक्षोभः सम्पन्नः। राष्ट्रे विद्यमानाः प्रमुखाः विश्वविद्यालयाः अपि छात्राणाम् अनुकूलतया आगतवन्त आसीत्। तदनुसृत्य एव शासकैः निर्णयः परिवर्तितः।
राजस्थानसर्वकारे कलहः - सच्चिन् पैलट् स्थानान्निष्कासितः। 
नवदिल्ली > साप्ताहिकं यावत् अधिकारप्राप्त्यर्थम् अनुवर्तमाने राजनैतिककलहे कोण्ग्रस्दलस्य राज्यस्तरीयाध्यक्षः उपमुख्यमन्त्रिपदस्थानीयः युवकः नेता सच्चिन् पैलटः स्थानद्वयादपि निष्कासितः। सच्चिनेन सह कलहकेतुमुद्धृतवन्तौ द्वौ मन्त्रिणावपि मन्त्रिसभातः बहिर्नीतौ। 
  मुख्यमन्त्रिपदप्राप्त्यर्थं सच्चिन् पैलटस्य नेतृत्वे कैश्चित् कोण्ग्रस्दलीयसामाजिकैः आयोजितायाः कुकेल्याः परिणतिरेव राजस्थाने दृष्टा।

Wednesday, July 15, 2020

भारतस्य स्वतन्त्रता दिवसः समागच्छति।
कोविड्रोगस्य काले स्वतंत्रता दिवसः।
      नव दिल्लीः -  कोरोणा महारोगस्य काराणात् भारतदेशस्य इतिहासे प्रथमः वारं रक्तदुर्गे स्वतंत्रता दिवस्य समारोहः पृथक् रूपेण मन्यते। गतवर्षस्य तुलनया अस्मिन् वर्षे केवलं  प्रतिशतं विंशति "अति महत्वपूर्णाः  जनाः" अन्याः जनाः च  प्रधानमन्त्रिणः मोदिनः प्रसारणं दृष्टुम् शक्ष्यन्ते। पाठशालानां छात्राणां स्थानेषु पंचशताधिक-सहस्त्रं कोरोणा रोगान्मुक्ताः  एतस्मिन् भागभाक् भविष्यति।  
  समारोहे अस्मिन्  छात्रेभ्यः भागं कर्तुं न शक्यते। एतस्मिन् पञ्चाशत् स्थानीयाः नगरारक्षकाः भविष्यन्ति अन्याः सहस्रं  भागभागिनः देशस्य पृथक् पृथक् क्षत्रेभ्यः  भविष्यन्ति।

कोविड्व्यापनमनुदिनं वर्धते - केरले प्रतिदिनबाधा ह्यः ६०८।
सम्पर्कव्यापनम् अतिरूक्षम्। 
कोच्ची > केरलस्य प्रतिदिनकोविड्बाधा ह्यः षट्शतमतीता। ६०८ जनाः ह्यः रोगबाधिताः अभवन्। एषु ३९६ जनेषु सम्पर्केणैव रोगः अबाधत। एकः मृत्युवशं प्राप्तः। १८१ स्वास्थ्यभूताः अभवन्। 
  ह्यः राजधानीजनपदे २०१ जनाः रोगबाधिताः जाताः। एषु १७७ सम्पर्केण बाधिताः। जनानां जाग्रताभाव एव सम्पर्कव्यापनस्य हेतुरिति मुख्यमन्त्रिणा पिणरायिविजयेनोक्तम्।रोगप्रतिरोधप्रक्रमेषु केषांचन नागरिकाणां उदासीनभावः महद्विपदे कारणं भविष्यतीति तेन निगदितम्। 
  राज्ये प्रथमतया एव रोगिणां संख्या ६०० अतीता। जूलाय् मासस्य दशमदिनाङ्कादारभ्य प्रतिदिनरुग्णसंख्या चतुर्शताधिका अासीत्। ह्यः एव ६०० अतीता। अनेन निखिला रोगबाधितसंख्या ८९३० प्राप्ता। ४४५४ जनाः इदानीं चिकित्सायां वर्तन्ते।

Monday, July 13, 2020

केरले कोविड्बाधितानां प्रतिदिनसंख्या चतुर्शताधिका। 
अनन्तपुरी >  केरले कोविड्व्यापनम् आशङ्काजनकं वर्तते। गतदिनत्रयं यावत् प्रतिदिनं रोगबाधितानां संख्या ४००अधिकतया तिष्ठति।प्रतिदिनं वर्धमानः च। ह्यः कोविड्बाधिताः ४३५ आसन्। तत्र २०६ जनेषु सम्पर्केणैव रोगः बाधितः। 
  आहत्य रोगबाधिताः ७८७३ जाताः। इदानीं चिकित्सायां ३७४३ रुग्णाः वर्तन्ते। ४०९५ विरुजः अभवन्। मरणानि तु ३१ । 
   एरणाकुलं, तिरुवनन्तपुरं ,मलप्पुरं जनपदेषु अतितीव्रमण्डलानि बहूनि वर्तन्ते। एरणाकुले आलुवा, चेल्लानं , पेरुम्पावूर् प्रदेशाः ,कोच्चीनगरस्थे केचन अंशाः, अनन्तपुरीनगरं, पून्तुरा समुद्रतटग्रामः, मलप्पुरं जिल्लायां पोन्नानी प्रविश्या च अतितीव्रमण्डलेषु अन्तर्भवन्ति।
कोविड् व्यापनं - वासरान्त्यपिधानं कर्कशं कुर्वन्  उत्तरप्रदेशः। 
लख्नौ >  कोविड्रोगस्य व्यापनं निरोद्धुं शनि-रविवासरद्वये निखिले राज्ये सम्पूर्णपिधानं विधातुं यू पि सर्वकारेण निश्चितम्। शनिवासरे कोविड्बाधिताः ३६,००० उपागताः इत्यस्मादेवायं निर्णयः। मरणानि तु ९३३ च जातानि। 
  अवशिष्टेषु शनि - रविवासरेषु कर्कशं सम्पूर्णपिधानं भविष्यतीति राज्यस्य उपमुख्यकार्यदर्शिना अवनीष् अवस्तिवर्येण निगदितम्। नगरेषु ग्रामेषु च पिधानं प्रायोज्यते। कार्यालयाः आपणाश्य पिधास्यन्ते। वित्तकोशाः प्रवर्तिष्यन्ते। रविवासरे केवलं अवश्यसेवाविभागः प्रवर्तिष्यते। गतशुक्रवासरे रात्रौ दशवादनादारभ्य ५५ होरादीर्घितं पिधानं सर्वकारेण आयोजितमासीत्।

Sunday, July 12, 2020

सुवर्णभारस्य निलीनानयनं - स्वप्नासुरेषः सुहृच्च बङ्गुलुरौ निगृहीतौ। 
एन् ऐ ए संस्थया गृहीताः सन्दीपः, स्वप्ना,रमीसः [यथाक्रमं वामतः]
रमीस् नामकः अन्यो$पि मलप्पुरं जनपदे ग्रहीतः।
कोच्ची  > सप्ताहैकस्मात् पूर्वं यू ए ई राष्ट्रस्य भारतस्थानपतिकार्यालयं निमित्तीकृत्य त्रिंशत् किलोपरिमितं सुवर्णम् अलीकरीत्या आनीतमित्यस्मिन् प्रकरणे अलीकानयनस्य सूत्रधारिणी इति विचिन्त्यमाना स्वप्नासुरेशः कर्णाटकस्थे बङ्गुरुनगरे ,  तस्याः मित्रं सन्दीप् सि नायर् इत्येषः मैसुरू नगरे च ह्यः राष्ट्रियान्वेषणसंस्थया [N I A] निगृहीतौ। द्वावपि अद्य एव केरलमानीतौ।  अनेन प्रकरणे$स्मिन् त्रयः अपराधिनः निगृहीताः। 
  राष्ट्रद्रोहापराधं तथा यू ए पि ए नामकं आतङ्कवादापराधं च आरोपितप्रकरणस्य अपराधिपट्टिकायां द्वितीया भवति स्वप्नासुरेषः। सा यू ए ई स्थानपतिकार्यालये कार्यकर्त्री आसीत्। ततः वर्षद्वयं यावत् केरलसर्वकारस्य ऐ टि विभागस्य अधीने प्रवर्तमाने State Information Technology and Infrastructure इत्यस्मिन् निदेशिकारूपेण कार्यं कुर्वन्ती आसीत्। प्रथमः अपराधी यू ए इ राष्ट्रस्य नयतन्त्रकार्यालये पि आर् ओ रूपेण वर्तमानः सरित् नामकः सप्ताहात्पूर्वमेव निगृहीतः। रमीस् नामकः इतरो$पि प्रकरणे$स्मिन् मलप्पुरं जनपदे आरक्षकैः ग्रहीतः। एषः अपि सुवर्णानयनप्रकरणश्रृङ्खलायां सुप्रधानभागं वहतीति सूचना अस्ति। 
  इदानीं आलुव जनपदीयातुरालये स्वास्थ्यशोधनानन्तरं कोच्चीनगरस्थे विद्यमाने एन् ऐ ए कार्यालयमानीतौ द्वावपि अद्य चतुर्वादने न्यायाधीशसमक्षम् उपस्थापयिष्यन्ति।
अमिताभबच्चः पुत्रश्च कोविड्बाधितौ। 
अमिताभ बच्चः। 
महाराष्ट्रे कोविड्बाधिताः द्विलक्षाधिकाः, मृत्युः दशसहस्रमुपयाति। 
मुम्बई >  प्रशस्तः 'बोलिवुड्'चलच्चित्रनटः अमिताभबच्चः तस्य पुत्रः अभिनेता च अभिषेकबच्चः च कोविड्रोगबीधिताविति दृढीकृतम्। द्वावपि मुम्बय्यां नानावती आतुरालयं प्रवेशितौ। तयोः स्वास्थ्यावस्था शुभदायकी इति अातुरालयाधिकृतैः सूचितम्। 
  कोरोणाबाधावृत्तान्तम् अमिताभबच्चः स्वयमेव ट्विट्टर् द्वारा विज्ञापितवान्। अन्येषां परिवाराङ्गानां स्रवाः अपि शोधनाय स्वीकृताः। सर्वैः फलमाकांक्षते। 
  महाराष्ट्रे कोविड्बाधिताः २,३८,४६१ जाताः। मृत्युसंख्या ९८९३ अभवत्। किन्तु धारावीनामकस्थाने कोविड्व्यापनं नियन्त्रणाधीनं वर्तते।

Saturday, July 11, 2020

संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन्, 
नमांसि
 छात्रा:,शिक्षका:,प्राध्यापका:,अनुरागिण:,सामाजिका:,महिला:,बाला:,युवान:,भारतीया: चेति वयं सर्वे संस्कृतस्य जना:। परं संस्कृतं कस्य इति प्रश्न: पर्वतायते। य: 'संस्कृतं मम' इति चिन्तयति स: अवश्यमेव संस्कृतस्य प्रयोगं कुर्यात्। ममत्वस्य अनुभूत्यै,  प्रकटनाय वा अन्यत् विधानं नास्ति संस्कृतप्रयोगं विहाय ।सर्व: अपि चिन्तयेत्-अहं संस्कृतात् ज्ञानं प्राप्नुवम्, वित्तं पदं च प्राप्नुवम्, समाजे प्रतिष्ठां स्थानं सम्मानं च प्राप्नुवम्। परं संस्कृतं मत् किं वा प्राप्नोत्? मित्राणि, वयं  'संस्कृतं मम' इति ममत्वप्रकटनाय अनुभूत्यै च संस्कृतव्यवहारशीलाः भवेम।
 जयतु  संस्कृतम् जयतु भारतम् ।
प्रथमटेस्ट् क्रिकेट्क्रीडायां वेस्ट् इन्टीस् दलस्य आधिपत्यम्। 
     सताम्प्टण्> इङ्ग्लण्ट्-वेस्ट् इन्टीस् दलयोः मध्ये प्रचाल्यमानायां प्रथमटेस्ट् क्रिकेट्क्रीडायां वेस्ट् इन्टीस् दलाय ११४ धावनाङ्कानाम् आधिपत्यम्। इङ्ग्लण्ट् दलस्य प्रथमेन्निङ्स् अङ्कान् २०४ धावनाङ्कान् प्रति वेस्ट् इन्टीस् दलं प्रतिक्रीडनावसरे ३१८ धावनाङ्कान् प्रापयत्। वेस्ट् इन्टीस् दलाय क्रेग् ब्रात्वेय्ट्, षैन् डौरिच् च अर्धशतकं प्रापयताम्। तृतीयदिनस्य क्रीडायाः समापनवेलायां द्वितीयेन्निङ्स् मध्ये इङ्ग्लण्ट् दलं क्रीडकनष्टं विना १५ धावनाङ्कान् प्रापयच्च। क्रीडायाः प्रथमदिनं वृष्टिवशात् त्यक्तमासीत्।

Friday, July 10, 2020

मिसोरां राज्ये भूचलनम् - रिक्टर् मापिन्यां ४.३ इति तीव्रता अङ्किता।
 
    ऐस्वाल्>  मिसोरां राज्ये चम्बाई जनपदे भूचलनम् अभवत्।  ४. ३ इति रिक्टर्-मापिन्यां अङ्कितं भूचलनं गुरुवासरे मध्याह्ने आसीत्। जीवापायः वा वस्तुनाशः वा न अभवत्।  चम्पाईतः २३ किलो मीट्टर् पूर्वदक्षिण-भागे दश-किलो मीट्टर्  अन्तर्भागः भवति प्रभवकेन्द्रः इति राष्ट्रिय-भूकम्प-विज्ञान-केन्द्रेण उच्यते। विगते मासत्रयाभ्यन्तरे आहत्य अष्ट भूचलनानि आपन्ननि। चम्पाई देशे त्रीणि चलनानि च अभवन्। अनुवर्तमानेन भूचलनेन प्रदेशवासिनः आशङ्काकुलाः वर्तन्ते।

Thursday, July 9, 2020

कोविड् वैराणुः  मस्तिष्कं बाधते। सुषुप्तिरोगः भविष्यति इति वैज्ञानिकाः। 
कोरोण-वैराणुबाधया मस्तिष्कस्य क्षमता न्यूना भविष्यति इति वैज्ञानिकैः पूर्वसूचना प्रदत्ता अस्ति। रोगबाधितेषु  नाडीसम्बन्धतया  गुरुतररोगाः भविष्यन्ति। बुद्धिभ्रमः उन्मादः च भविष्यतः नाडीरोगवशात्  इति पूर्वसूचनायाम्  अस्ति। लन्टनस्य  विश्व-विद्यालयकलाशाला (UCL) ४३ कोविड्१९ रोगिषु कृते अध्ययने एव ईदृशम् अनुमानम्।   
१९१८- तमे आपन्ने 'स्पानिष् फ्लू' इति ज्वरानुबन्धतया ईदृशी अवस्था जाता आसीत्। कोविड्  रोगबाधायाः अनन्तरमपि ईदृशी अवस्था स्यात्  इति विद्यालयकलाशालायाः अनुसन्धाता मैक्कल् सान्टि अवदत्। एते स्वस्य परितः किं जायते इति अज्ञात्वा सुप्तो वा इत्यवस्थायां कालः यापयन्तः सन्ति। मानसिक-संवेदनक्षमता हीनाः भूत्वा कालं यापयन्तः इति भवति सुषुप्तिरोगः।
ब्रसील् राष्ट्रपतिः कोविड्बाधितः। 
जयर् बोल्सनारो। 
ब्रसीलिया >  ब्रसीलराष्ट्रस्य राष्ट्रपतिः जयर् बोल्सनारो इत्यस्मिन् कोविड्रोगबाधा स्थिरीकृता। ब्रसीलस्य आर्थिकव्यवस्थापुनरुज्जीवनं लक्ष्यीकुर्वन् , कोविड्रोगं केवलज्वर एवेति सः प्रचारणं कृतवानासीत्। अत एव सः स्वास्थ्यव्यवस्थामननुपालयन् मुखावरणमधार्यमाणः जनसञ्चयेषु व्यवहरन् हस्तदानादिकं कुर्वन् चासीत्।
  किञ्च सः स्वयं स्वास्थ्यपूर्णः, 'हैड्रोक्सि क्लोरोक्विन्' नामकामौषधस्य स्थिरोपयोक्ता इत्यतः कोविड् न बाधिष्यते इति च ७५ वयस्कः सः प्रचारणं कृतवानासीत्। किन्तु गतगुरुवासरादारभ्य कासेन पीडितः सः शनिवासरे यू एस् विदेशप्रतिनिधिना सह मध्याह्नभोजनमपि कृतवान्।

Tuesday, July 7, 2020

कायिकम्- क्रिकेट् स्पर्धा श्वः आरभ्यते।
लण्टण्> चतुर्णां मासानां विरामात्परं कायिकलोके पुनरपि क्रिकेट् वसन्तः। कोविड्भीत्या अवसिताः क्रिकेट् स्पर्धाः श्वः आरभ्य कायिकलोके सजीवाः भविष्यन्ति। इङ्ग्लण्ट्-वेस्ट् इन्टीस् दलयोर्मध्ये एव स्पर्धाः वर्तन्ते। प्रथमटेस्ट्स्पर्धा श्वः भारतीयसमये मध्याह्नात्परं ३.३० तः आरभ्यते। सताम्प्टण् मध्ये भवति स्पर्धा। किन्तु मैतानमागत्य साक्षात् स्पर्धां द्रष्टुं क्रिकेट्प्रेमिणां कृते अनुमतिः नास्ति। कोविड् जाग्रतानिर्देशान् परिपाल्य एव स्पर्धाः आयोजिताः वर्तन्ते। तथापि दूरदर्शने सोणि सिक्स् मध्ये यथासमयं स्पर्धां द्रष्टुम् अवसरः वर्तते च।
विश्वस्मिन् कोविड्बाधिताः १.१६कोटिः। 
वाषिङ्टणः> ह्यः आविश्वं कोविड्रोगबाधितानां संख्या एकलक्षाधिकायां प्राप्तायां निखिला संख्या १६ लक्षाधिकैककोटिं प्राप्ता। ह्यः मृत्युसंख्या द्विसहस्राधिका आसीत्। आहत्य मरणसंख्या ५,३८००० उपगच्छति। 
  यूू एस्, रूस्, मेक्सिको, इरानः, पाकिस्थानं, सौदी, बङ्लादेशः, इन्डोनेष्या, इराखः, फिलिप्पीन्स्, ओमानःइत्यादिषु राष्ट्रेषु रोगबाधा अधिकया दृश्यते। 
  पाकिस्तानस्य स्वास्थ्यमन्त्री  डो. सफर् मिर्सः कोविड्बाधित इति स्थिरीकृतम्। विदेशकार्यमन्त्री षा मह्मूदी खुरेषी इत्यस्यापि गतदिने कोविड् स्थिरीकृतमासीत्। पाकिस्थाने कोविड्बाधिताः २,३१००० अतीताः, ७६२ मरणानि च अभवन्।
डोवल्-वाङ् यि चर्चा फलं प्राप्नोति - सीमायाः चीनस्य प्रतिनिवर्तनम्।
      नवदहली> चीनभारतयोः मध्ये सीमाविषये सञ्जातस्य तर्कस्य परिहारः भारतस्य देशीयोपदेष्टा अजित् डोवल् महाभागः चीनराष्ट्रस्य विदेशकार्यमन्त्रिणा वाङ्यि महोदयेन कृतया चर्चया जायमानः दृश्यते। शुभसूचकत्वेन सीमायाः तर्कभूमेः चीनस्य सैनिकसङ्‌घः प्रतिनिर्वतः इति वृत्तान्तः माध्यमलोकेन प्रकाशितः वर्तते। चीनस्य सैनिकसङ्‌घः तर्कभूमेः कि.मि द्वयं यावत् प्रतिनिवर्तः इति वृत्तान्तः आगतः वर्तते।डोवल्-वाङ्यि महोदययोः मध्ये संवृत्ता चर्चा घण्टाद्वयं यावत् अभवत्। चर्चेयं सौहृदात्मिका आसीत्, भाविकालेऽपि द्वयोरपि राष्ट्रयोः सीमनि नियन्त्रणरेखायां एतादृशप्रतिसन्धेः नियन्त्रणाय चर्चायां निर्णयः स्वीकृतः वर्तते - माध्यमलोकः अवलोकयति।

Monday, July 6, 2020

सामाजव्यापनभीतिः - केरलराजधान्यां त्रितलपिधानम्। 
 अनन्तपुरी >  अनन्तपुरीनगरे सम्पर्केण कोविड्रोगः वर्धते इत्यतः नगरसभावधौ अद्य आरभ्य सप्ताहपर्यन्तं त्रितलीयं पिधानं विहितम्। विधानसभामभिव्याप्य सर्वे सर्वकारीयकार्यालयाः पिधाय एव वर्तिष्यन्ते। विधानसभायां केवलं प्रधानाधिकारिणः एव भविष्यन्ति। 
  मुख्यमन्त्री अन्ये मन्त्रिणश्च स्वस्वगृहेषु वर्तमानाः कर्मनिरताः भविष्यन्ति। जनाः गृहेभ्यो बहिर्गन्तुं नार्हन्ति। गतसम्पूर्णपिधानकालमपेक्ष्य कर्कशानि नियन्त्रणान्येव विधास्यन्ति। 
  ह्यः केरले २२५ कोविड्रोगिणः नूतनतया अजायन्त। तेषु ३८ सम्पर्केण रोगबाधिताः सन्ति। अनन्तपुर्यां २२ जनाः सम्पर्कबाधिताः सन्ति।
दक्षिणजापाने जलोपप्लवः १२ जनाः मृताः।
        टोकियो> अति वृष्ट्या सञ्जाते जलोपप्लवे मृत्पाते च १२ जनाः मृताः १० जनाः अप्रत्यक्षाः च अभवन्। मृत्पातेन  बहूनि गृहाणि भग्नानि। प्रलयबाधित-प्रदेशेषु जनाः निरालम्बाः सन्ति। रात्रौ वृष्टिः शक्ता अभवत् कुममोट्टो, कगोषिम नगरेषु ७५००० जनाः निवासस्थानात् सुरक्षित-स्थानं प्रापणीयाः इति वाञ्चितवन्तः। हिट्टोयोष्कि नगरः जलेन आप्लावितः। वृद्धसदनात् १४ अन्तेवासिनः अप्रत्यक्षाः अभवन्।
10,000 प्रतिरोधसैनिकाः दुरितसमाश्वास प्रवर्तनाय नियुक्ताः सन्ति इति जापानस्य प्रधानमन्त्री  आबे षिन्सो अवदत्।

Sunday, July 5, 2020

कोरोण वैराणोः प्रभवस्थानं प्रत्यभिज्ञातुं WHO सङ्घः चीनराष्ट्रं प्रति
 
      जेनेव> कोविड्19 रोगबाधायाः कारणभूतस्य वैराणोः  सार्स् कोव् -२ इत्यस्य  प्रभवस्थानम् अन्वेष्टुं  सक्षमान् वैज्ञानिकान् प्रेषयितुम् उद्युक्तः विश्वस्वास्थ्य संस्थया।  समागते सप्ताहे वैज्ञानिकाः चीनराष्ट्रं प्राप्स्यन्ते। चीनस्य परीक्षणशालातः वैराणोः  उत्पत्तिः इति आरोपण-प्रत्यारोपणयोः  मध्ये भवति विश्व-स्वास्थ्य-संस्थायाः विज्ञप्ति प्रकाशनम्। वैराणोः आविर्भावम् अधिकृत्य अवश्यं ज्ञातव्यम् । वैराणुं विरुद्ध्य योद्धुम् सफल-चिकित्सापद्धत्याः  समायोजनाय इदम् अन्वेषणम्  अनिवार्यमिति विश्व-स्वास्थ्य-संस्थाया: अध्यक्षः डेड्रोस् अथनों गब्रियेससः अवदत्।
संस्कृतप्रेमी प्रतिभावान् प्रदीप् प्रणवः सर्वासु परीक्षासु उन्नतस्थानं प्राप्तवान् ।
जार्खण्डस्य लोक् सेवा आयोस्य परीक्षायाम् आरक्षक सेवा विभागे  DYSP पदाय नियुक्तिनिर्देशः
       राञ्ची> जार्खण्डस्य लोक् सेवा आयोगस्य परीक्षायाम् आरक्षक सेवा विभागे  DYSP पदाय अस्य नियुक्तिनिर्देशः लबधः। एम् एस् सि, एम् फिल् परीक्षायाम् उन्नत अङ्काः प्रा प्राप्तवानयं दशम कक्ष्यापर्यन्तं संस्कृतं पठितवानासीत्।  कराटे आयोधन कलायां द्वितीयं पदं (karate second dan) प्राप्तवान्। डार्जिलिङ् देशे विद्यमानायाः हिमालय-पर्वतारोहक संसस्थायाः शिक्षणमपि सर्वोत्तमरीत्या अनेन सम्प्राप्तम्। हिमालयस्य १० श्रृङ्गान्  एषः विजितवान्। समुद्रतरणे अपि शिक्षितः एषः। NCC विभागतः रजतपदकः प्राप्तवानस्ति।
     कलारङ्गेऽपि एषः  निपुणः भवति। भारतस्य विदेशस्य च ४२ सङ्गीत उपकरणेषु प्रवीणः अस्ति एषः।
जारखण्डस्य  नागपुरि चल नचित्र मुद्रिकायाम् एष: अभिनेता अस्ति। दशवर्षाणि यावत् लोक आयोगस्य परीक्षायाः कृते यत्नं कुर्वन्नासीत् एषः।
       वित्तकोशे, बौद्धिकायोगे, आयकर विभागे च कर्मचारी रूपेण बहुवारं नियुक्तः अभवत्  एषः प्रदीप प्रणवः। अयं कर्मशाली प्रदीपः इदानीं साङ्ख्यकी एवं क्रियान्वय-मन्त्रालयस्य राष्ट्रिय प्रतिदर्श कार्यालयये सह अधीक्षण पदाधिकारि रूपेण वर्तमानः अस्ति।
     इदानीं विनाविलम्बं DYSP पदं प्राप्तुं सज्जः भवति एषः। तथाऽपि दशमी-कक्ष्यापर्यन्तं अध्ययनं कृतं संस्कृतं पुनरपि अध्येतव्यम् आचार्यपरीक्षायाम् उन्नतस्थानं प्रार्तव्यम् च इति अस्य नूतना अभिवाञचा।
केरले कोविड्बाधितानां प्रतिदिनसंख्या द्विशताधिका। 
प्रमुखनगरेषु अधिकजाग्रता ।
        अनन्तपुरी> गतदिनद्वये केरले कोविड्रोगिणां प्रतिदिनसंख्या अनुस्यूततया द्विशतमुद्गच्छति। ह्यः २४० जनाः रोगबाधिताः अभवन्। परह्यः तु २११ जनाः कोविड्भावाः जाताः। ह्यस्तनरूग्णेषु १५२ जनाः विदेशेभ्यः प्रत्यागताः भवन्ति। ४२ इतरराज्येभ्यः आगताश्च।   अद्यावधि रोगबाधिताः ५२०४।             
   तथा च प्रतिदिनं  रोगमुक्तिं भूयमानानां संख्या अपि द्विशताधिका वर्तते। ह्यः परह्यः च यथाक्रमं २०९, २०२ जनाः विरुजः जाताः। आहत्य ३०४८ रोगविमुक्तिं प्राप्ताः।
   केरलस्य राजनगरीमभिव्याप्य प्रमुखानि नगराणि रोगव्यापनभीत्यां वर्तन्ते। अनन्तपुर्यां पालयंस्थानस्थे आपणे तथा कोच्चीनगरस्थे आपणे च केचन सम्पर्केण रोगबाधिताः जाताः। किन्तु रोगस्रोतांसि न प्रत्यभिज्ञातानि इत्येतत् आशङ्कां संवर्धते। मलप्पुरं कण्णूर् जनपदयोरपि सम्पर्केण रोगबाधिताः सन्ति। तेषु स्थानेषु अतिजाग्रताप्रक्रमाः आरब्धाः।

Saturday, July 4, 2020

खालिस्थानस्य भीकरनेतारः इदानीं यावत्  उग्रदोषिणः। नव अतङ्किनः भारतस्य गृहमन्त्रालयेन पट्टिकायां निविष्टाः। 
     नवदिल्ली> खालिस्थानस्य  उग्रदोषिणः आतङ्किनः पट्टिकायां निविविष्टाः इत्यस्य कारणं केन्द्र-गृहमन्त्रालयेन विशदीकृतम्। विगते सप्ताहे विश्वस्य विविधभागेषु केन्द्रीकृताः खालिस्थानस्य आतङ्किनः  दोषिणां पट्टिकायां निविष्टाः  इत्यस्य विवरणमेव अधुना बहिरागतम्। एते नव आतङ्किनः पञ्जाबे आतङ्कवादस्य प्रचारं क्रियन्ते। राष्ट्रे अत्याचार प्रवर्तने निरताः, भारतं विरुद्ध्य प्रवर्तनानाम् आयोजनम् च तैः कृतानि दोषकर्माणि इति आरक्षकैः प्रत्यभिज्ञातम्। पाकिस्थानादयेषु राष्ट्रेषु उषित्वा ते प्रवर्तन्ते।
अन्ताराष्ट्रतले विद्यमानेन सन्ध्यनुसारेण एतेभ्यः कारागार दण्डं वा भारताय अर्पणं वा करणीयः। नियमानुसारं सतेषां स्थावर जंगम वस्तु धनादीनि बलात् स्वीकर्तुमपि शक्यते।
लडाके भारतप्रधानमन्त्रिणः अप्रतीक्षितसन्दर्शनम् 
लडाके प्रधानमन्त्री सैन्यम् अभिसंबोधयति। 
सैनिकान् अभिसम्बुध्यमानः नरेन्द्रमोदी। 
लडाकः >  ह्यः भारतस्य प्रधानमन्त्री नरेन्द्रमोदी लडाकस्थे सङ्घर्षभरितप्रदेशे अप्रतीक्षितसन्दर्शनं कृतवान्। लडाकस्य राजधीनीभूतात् 'ले' इत्यस्मात् ३६ कि मी  दूरे वर्तमाने ११,००० पादपरिमिते उत्तुङ्गे वर्तमानं नीमूस्थं सैनिकास्थानं प्राप्तवान् नरेन्द्रमोदी सैनिकान् अभिसम्बुध्यमानः मातृराष्ट्रं परिरक्षतां सैनिकानां धैर्यं त्यागं च अनर्घमिति प्राकीर्तयत्। 
  संयुक्तसेनाध्यक्षः बिपिनरावतः, स्थलसेनाधिपः जनरल् एम् एम् नरवणे इत्येताभ्यां सह ह्यः प्रभाते आसीत् प्रधानमन्त्री लडाकस्थं 'ले' प्राप्तः। गल्वान् प्रतिद्वन्द्वे व्रणिताः सैनिकातुरालयस्थाः भटाः तेेन सन्दृष्टाः। 
  तदनन्तरं स्थल-व्योम-ऐ टि बि पि सैनाङ्गान् अभिसंबुध्यमानः प्रधानमन्त्री प्रोत्साहजनकैः उत्तेजकैश्च वाक्यैः राष्ट्रस्य सीमासंरक्षणे व्यापृतान् सैनिकान् अभ्यनन्दयत्। यं कमपि प्रतियोद्धुं भारतं सुसज्जमिति उद्घुष्य चीनाय शक्तां पूर्वसूचनामदात्।