OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, July 24, 2026

 पश्चिमेष्या संघर्षः रक्तसमुद्रं व्याप्नोति। 

हूतिसंघेन सौदी अरेबियायाः द्वे महानौके आक्रान्ते। 

हूतिविमतानाम् आक्रमणे अग्निबाधिता सौदीमहानौका।

केय्रो> यू एस्-इरानयोः युद्धेन पश्चिमेष्या कलुषिते वृत्ते संघर्षः रक्तसमुद्रं व्याप्नोति।  येमने वर्तमानाः इरानम् अनुकूलयन्तः हूतिविमताः रक्तसमुद्रेण गच्छन्त्यौ सौदी अरेबियायाः द्वे तैलेन्धनमहानौके विरुध्य  गुरुवासरे आक्रमणमकुर्वन्। महानौकाद्वयमपि अग्निबद्धमभवत्। 

  अस्य मासस्य १३ तमे दिनाङ्के यमनस्य राजधान्यां सनायाम् अन्ताराष्ट्रविमाननिलयं प्रति आक्रमणमभवत्। तस्य पृष्ठतः सौदी आसीत् इत्यारोप्य हूतिविमतविभागेन मिसैल् शस्त्राक्रमणं कृतम्। रक्तसमुद्रस्थे 'बाब् एल् माण्टब्' इत्यस्मिन् समुद्रसङ्कोचे सौदीं विरुध्य नाविकोपरोधः विहितः। तदनन्तरम् आपन्नं प्रथमं महानौकाक्रमणं भवति गुरुवासरे जातम्।