राष्ट्रमण्डलक्रीडा उद्घाटिता।
मीरा बाय् चानु लव्लिना बोल्ग् ओहैल् च भारतध्वजम् अवहताम्।
![]() |
| कोमण् वेल्त् क्रीडासमारोहे भारतसंघः। |
ग्लास्गौ> २३ तमा साम्राज्यसम्बद्धराष्ट्रक्रीडा [Common Wealth Games] स्कोट्लान्डे ग्लास्गौ नगरे राज्ञा चाल्स् तृतीयेन उद्घाटिता। गतरात्रे सार्धदशवादने आसन् उद्घाटनकार्यक्रमाः। राज्ञी कामिला, ब्रिटनस्य प्रधानमन्त्री आन्डी बर्हामः, इत्यादयः कार्यक्रमे भागं स्वीकृतवन्तः।
उद्घाटनसमारोहे भारतस्य ओलिम्पिक्स् पदकजेत्र्यौ मीरा बाय् चानु लव्लिना बोल्ग् ओहैल् च राष्ट्रध्वजम् ऊढवत्यौ। भारताय १२६ क्रीडकाः स्पर्धन्ते।
आहत्य ७५ राष्ट्राणि कायिकक्रीडामहोत्सवे भागं गृह्णन्ति। १० क्रीडाप्रकरणानां २१५ विभागैः त्रिसहस्राधिकानि कायिकताराणि वैभवप्रदर्शनाय स्कोट्लान्डे सम्मिलिताः सन्ति।
पूर्वं ब्रिटीषसाम्राज्यस्य सामन्तराष्ट्राणि अन्तर्भाव्य आरब्धा कायिकक्रीडा अस्ति कोमण् वेल्त् गयिंस् [Common Wealth Games]। तस्याः २३ तमं संस्करणमस्ति एतत्। आगस्ट् द्वितीये दिनाङ्के समाप्स्यते।
