असमे जलोपप्लवः - ४१ मरणानि।
गुवाहाटी> कतिपयदिनैः अनुवर्तमानया अतिवृष्ट्या असमराज्ये ११ जनपदेषु आपन्ने जलोपप्लवे ४१ जनाः मृत्युमुपगताः। ६. ५ लक्षं जनाः विविधप्रदेशेषु लग्नाः भवन्ति।
राज्ये मुख्यनद्यः जलाप्लाविताः प्रवहन्ति। दुरन्तबाधितप्रदेशाः मुख्यमन्त्रिणा हि
मन्द बिश्व शर्मणा सन्दृष्टाः।