भारत-सिम्बाब्वे टि-२०
प्रथमस्पर्धायां भारतस्य विजयः।
वैभव सूर्यवंशिने अर्धशतकं प्राप्यमाणः कनिष्ठतमः इति विश्वकीर्तिः।
हरारे> सिम्बाब्वे विरुध्य प्रथमे टि-२० प्रतिद्वन्द्वे भारतस्य सप्त द्वारकाणां विजयः। अनुस्यूततया षण्णां पराजयानाम् अनन्तरमेव विश्ववीराणामयं विजयः!
भारतगणे कनिष्ठतमः क्रीडकः वैभव सूर्यवंशी १९ कन्दुकेभ्यः ५० धावनाङ्कान् सम्प्राप्य अर्धशतकं प्राप्यमाणः कनिष्ठतमः क्रीडकः इति विश्वकीर्तिम् अवाप।
प्राप्ताङ्कसूचिका - सिम्बाब्वे २० क्षेपणचक्रेषु १२५/७, भारतं - १३.२ क्षेपणचक्रेषु १२६/३।
