OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, July 23, 2026

 फ्रान्से ऊनपञ्चदशवयस्कानां सामाजिकमाध्यमनिरोधः।

पारीसः> ऊनपञ्चदशवयस्काः बालकाः सामाजिकमाध्यमानाम् उपयोगं निरुध्यमानः  नियमः फ्रान्स संसदा  अनुमोदितः। आगामि अध्ययनवर्षादारभ्य [सेप्टम्बर्] अयं नियमः प्रबलो भविष्यति। 

  बालकान् अन्तर्जालीयवञ्चनागर्तेभ्यः रक्षितुं तेषां मानसिकस्वास्थ्यं संरक्षितुमेवायं प्रक्रमः। सामाजिकमाध्यमोपयोगेन सह सम्बन्ध्य यूरोप्यन् यूणियन् राष्ट्रेषु समग्रनिरोधम् आयोज्यमानं प्रथमराष्ट्रमस्ति फ्रान्सः। 

  रक्षितारः राष्ट्रस्थाः बालाधिकारप्रवर्तकाश्च नियमममुं स्वागतीचक्रुः। बहूनां कौमारवयस्कानाम् आत्महत्यायाः कारणं डिजिटल् विषयाः इत्यारोप्य 'टिक् टोक्' इत्यादिवेदिकां विरुध्य बहवः फ्रञ्चपरिवाराः अपराधारोपान् समर्पितवन्तः आसन्। 

  फ्रान्से ५०% कौमारवयस्काः प्रतिदिनं २ - ५ होराः पेशलदूरवाणिषु यापयन्तीति राष्ट्रस्य स्वास्थ्यनिरीक्षणाभिकर्तुः निरीक्षणं वर्तते। १२ - १७ वयस्केषु  बालकेषु ९०% अन्तर्जालीयसेवायै दिनं प्रति पेशलदूरवाणीः  इपयुज्यन्ते। एषु ५८% बालकाः सामाजिकमाध्यमानि उपयुज्यन्ते। 

  बालकान् कौमारकान् च संरक्षितुं यूरोपभूखण्डस्य प्रयत्नेषु फ्रान्सः मार्गदर्शको भविष्यतीति राष्ट्रपतिना इम्मानुवल् मक्रोणेन प्रोक्तम्।