OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, July 24, 2026

 प्रश्नपत्रचौर्यम्: दिल्ली-उच्चन्यायालयेन द्रुतगतिन्यायालयम् अविष्कृतम्

​     दिल्ली> नीट् (NEET) परीक्षायाः प्रश्नपत्रचौर्यप्रकरणे प्रधानमन्त्रिणः प्रख्यापनानन्तरं दिल्ली-उच्चन्यायालयेन द्रुतगतिन्यायालयः (Fast Track Court) रचितः। न्यायाधीशः अनु ग्रोवर् बलिगा अस्य द्रुतगतिन्यायालयस्य विशेषन्यायाधीशः भविष्यति। एतत्सम्बन्धि विज्ञापनं दिल्ली-उच्चन्यायालयेन प्रकाशितम्। २०२४-तमस्य सार्वजनिकपरीक्षाधिनियमस्य (Public Examinations Act 2024) अन्तर्गत-मागताः सर्वे अपराधाः अनेन द्रुतगतिन्यायालयेन विचारिष्यन्ते। अयम् द्रुतगतिन्यायालयः दिल्लीस्थे 'रोस् आवेन्यू' न्यायालयसमुच्चये कार्यरतः भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रभाते एव अस्य द्रुतगतिन्यायालयस्य विज्ञापमकरोत्।