OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, July 24, 2026

 जर्मनी, फ्रान्स्, इट्टली - पादकन्दुकदलेभ्यः नूतनाः परिशीलकाः। 

यथाक्रमं यर्गन् क्लोपः, सिनदिन् सिदानः, पेप् गार्डियोला ।

गार्डियोला,    सिदानः,        यर्गन् क्लोपः 

> फिफा विश्वचषकस्पर्धायाः निर्णायकचरणे [knockout] बहिर्गतस्य जर्मनीगणस्य नूतनपरिशीलकरूपेण यर्गन् क्लोप् नामकः नियुक्तः। 'लिवर् पूल्', 'बोरुसिया डोर्ट् मुण्ड्' इत्येतयोः पादकन्दुकगणयोः परिशीलनेन तेभ्यः  'चैम्पियन्स् लीग्', प्रिमियर् लीग् इत्यादीनि अष्ट किरीटानि सम्प्रापयितुं वैभववानस्ति ५९ वयस्कः क्लोप् वर्यः। 

फ्रान्सदलस्य परिशीलकस्थानम् अलङ्कर्तुं भूतपूर्वः नायकः सिनदिन् सिदानः आगच्छति। औद्योगिकोद्घोषणम् आगामिसप्ताहे भविष्यति। १४ वर्षाणि यावत् फ्रान्सगणस्य परिशीलकस्य दिदियर् दषोम् इत्यस्य अनुगामी अस्ति सिदानः। 

 अतीतेषु त्रिषु विश्वचषकेषु योग्यताचक्रं तर्तुं अशक्तः आसीत् इट्टलीगणः। अतः वर्तमानीनः परिशीलकः गन्नारो गट्टुसो नामकः स्थानमत्यजत्। गणस्य पूर्वप्रभावं प्रत्याहर्तुं योग्याय परिशीलकाय अन्वेषणं स्पेयिनदेशीयः पेप् गार्डियोला इत्यमुं प्रप्तमस्ति। वेतनविषये अनुकूलनं भवेत्तर्हि सः इट्टलीं प्राप्स्यति।