सि जे पी आन्दोलनं तीव्रायते।
संसद् पथसञ्चलनाय दशसहस्रशः, आरक्षकमर्दनम्।
मेट्रो निस्थानानि पिधाय प्रशासनस्य प्रतिरोधः।
जन्तर मन्दरे युवकानां प्रतिषेधः।
नवदिल्ली> 'नीट्' प्रश्नपत्राणां परिस्रवणविषये सि जे पी [क्रोकोच् जनता पार्टी] संघटनस्य नेतृत्वे आरब्धम् आन्दोलनं दिल्ल्यां तीव्रं रूपमावहति। सोमवासरे संसद् मन्दिरं प्रति आयोजिते पथसञ्चलने दशसहस्रशः युवकाः छात्राश्च भागं कृतवन्तः। किन्तु मार्गमध्ये पथसञ्चलनं सुरक्षासेनया दिल्ली आरक्षकसेनया च प्रतिरुद्धम्। प्रक्षोभकान् प्रतिनिवर्तयितुं मर्दनप्रक्रमाः कृताः।
आन्दोलनं विविधैः विपक्षीयैः राजनैतिकदलैः समर्थितमित्यतः आन्दोलनं देशीयविषयरूपेण परिणमत च। संसदः सभाद्वये च प्रकरणमिदं विपक्षदलैः उन्नीतम्।
शिक्षामन्त्रिणः धर्मेन्द्रप्रधानस्य स्थानत्यागाय सिजेपीसंघटनेन प्रक्षोभः प्रबलः कृतः। आरक्षकसेनया विनाश्य अपनीता जन्तर मन्तरस्था आन्दोलनवेदिका गतरात्रावेव प्रक्षोभकैः पुनर्निर्मीता। सीजेपीनेतृभिः सह चर्चायै प्रशासनं सन्नद्धमिति केन्द्रमन्त्रिणा जे पी नड्डावर्येण निगदितम्।