बङ्गलादेशस्य राष्ट्रपतिः मुहम्मद षहाबुद्दीनः स्थानं त्यक्तवान्।
धाक्का> बङ्गलादेशस्य राष्ट्रपतिः मुहम्मद षहाबुद्दीनः [७६] त्यागपत्रं समर्पितवान्। कालपरिधिः वर्षद्वये अवशिष्टे अस्ति स्थानत्यागः। बह्व्यः स्वास्थ्यसमस्याः एव स्थानत्यागस्य हेतुरूपेण सूच्यन्ते। किन्तु प्रधानमन्त्रिणः तारिख रह्मानस्य सर्वकारस्य राष्ट्रपतौ अतृप्तिः अस्वारस्यं च कारणत्वेन प्रसूच्यते।
भूतपूर्वप्रधानमन्त्रिणी षैख् हसीना इत्येषां प्रति सौमनस्येन व्यवह्रियमाणः राष्ट्रपतिः शासनपक्षः बङ्गलादेश् नाषणलिस्ट् पार्टी इत्यस्मै अनभिमतः आसीत्। १९७१ तमवर्षस्य बङ्गलादेश विमोचनसंग्रामस्य मुख्यः भटः तथा भूतपूर्वः न्यायाधीशश्च षहाबुद्दीनः २०२३ तमे वर्षे एप्रिल् मासे राष्ट्रपतिरूपेण कार्यभारं स्वीकृतवान्। तदा षैख् हसीनायाः प्रशासनमासीत्।
